मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७१, ऋक् ६

संहिता

त्वं पा॑हीन्द्र॒ सही॑यसो॒ नॄन्भवा॑ म॒रुद्भि॒रव॑यातहेळाः ।
सु॒प्र॒के॒तेभि॑ः सास॒हिर्दधा॑नो वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

पदपाठः

त्वम् । पा॒हि॒ । इ॒न्द्र॒ । सही॑यसः । नॄन् । भव॑ । म॒रुत्ऽभिः॑ । अव॑यातऽहेळाः ।
सु॒ऽप्र॒के॒तेभिः॑ । स॒स॒हिः । दधा॑नः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

सायणभाष्यम्

हेइन्द्र त्वंपाहिरक्षकान् सहीयसोनॄन् सहस्वितमान् अनुग्रहे णातिप्रवृद्धबलान् नेतॄन् मनुष्यान- स्मान् मरुतोवा किञ्च मरुद्भिःसाकं अस्मास्ववयातहेळाभव अपगतमन्युर्भव मरुत्सुवातथाभव किञ्च सुप्रकेतेभिः शोभनप्रज्ञानैर्मरुद्भिःसह सासहिः शत्रूणामभिभवितासन् दधानः अस्मदभिमत- स्यधारयिताभवेतिशेषः शिष्टोव्याख्यातः ॥ ६ ॥

चित्रोवइतितृचात्मकमष्टमंसूक्तमागस्त्यंमारुतंगायत्रं चित्रस्तृचंगायत्रमित्यनुक्रमणिका लैङ्गि- कोविशेषविनियोगः ।

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११