मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७२, ऋक् १

संहिता

चि॒त्रो वो॑ऽस्तु॒ याम॑श्चि॒त्र ऊ॒ती सु॑दानवः ।
मरु॑तो॒ अहि॑भानवः ॥

पदपाठः

चि॒त्रः । वः॒ । अ॒स्तु॒ । यामः॑ । चि॒त्रः । ऊ॒ती । सु॒ऽदा॒न॒वः॒ ।
मरु॑तः । अहि॑ऽभानवः ॥

सायणभाष्यम्

हेमरुतः वोयुष्माकंयामोस्मद्यज्ञागमश्चित्रश्चायनीयः पूज्यआश्चर्यभूतोवास्तुभवतु नकेवलमागम- नमेवचित्रं किन्तु हेसुदानवः शोभनदानाः हेअहिभानवः अहीयमानप्रकाशाः युष्माकं संबन्धीचित्रः सआगमः ऊतीऊत्यैरक्षणाय इष्टतर्पणायवा युक्तश्चभवतु भवदागमनंशीघ्रमस्तु अभिमतप्रदंचास्त्वि- त्यर्थः ॥ १ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२