मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७२, ऋक् २

संहिता

आ॒रे सा वः॑ सुदानवो॒ मरु॑त ऋञ्ज॒ती शरु॑ः ।
आ॒रे अश्मा॒ यमस्य॑थ ॥

पदपाठः

आ॒रे । सा । वः॒ । सु॒ऽदा॒न॒वः॒ । मरु॑तः । ऋ॒ञ्ज॒ती । शरुः॑ ।
आ॒रे । अश्मा॑ । यम् । अस्य॑थ ॥

सायणभाष्यम्

हेसुदानवः शोभनदानामरुतः वोयुष्माकंसंबन्धिनीऋञ्चतीप्रसाधयन्ती स्वतेजसास्वात्मानमलं- कुर्वतीप्रसिद्धिंप्राप्नुवानावा साप्रसिद्धाशरुः हिंसका ऋष्टिः आरेदूरेभवतु तथाऽयमस्यथ क्षिपथ सो- श्माऽस्मासुव्यापकआयुधविशेषः आरेदूरनमैतत् दूरेभवतु मांनप्राप्नोतु यद्वा आरेशब्दआराच्छब्दप- र्यायः सचदूरेसमीपेचवर्तते अत्रसमीपवचनः यमस्मत्तोन्यमस्यथ तंवैरिणमस्माकं अश्मा उपलोप- मः कठिनः आयुधविशेषः आरेसमीपंप्राप्नोतु ॥ २ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२