मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७२, ऋक् ३

संहिता

तृ॒ण॒स्क॒न्दस्य॒ नु विश॒ः परि॑ वृङ्क्त सुदानवः ।
ऊ॒र्ध्वान्न॑ः कर्त जी॒वसे॑ ॥

पदपाठः

तृ॒ण॒ऽस्क॒न्दस्य॑ । नु । विशः॑ । परि॑ । वृ॒ङ्क्त॒ । सु॒ऽदा॒न॒वः॒ ।
ऊ॒र्ध्वान् । नः॒ । क॒र्त॒ । जी॒वसे॑ ॥

सायणभाष्यम्

हेमरुतः सुदानवः शोभनदानायूयं तृण्स्कन्दस्य तृणवच्चलनस्वभावस्य शुष्यमाणस्यवा ममविशः पुत्रभृत्यांदिरूपाःप्रजाःनुक्षिप्रं परिवृङ्क्त परिवर्जयत बाधापरिहारेणरक्षत यद्वोक्तलक्षणकालस्यासु- रविशेषस्यवा प्रजाः परिवर्जयत किञ्च नोस्मानूर्ध्वान्कर्त कुरुत जीवसेचिरजीवनाय ॥ ३ ॥

गायत्सामेतित्रयोदशर्चंनवमंसूक्तंआगस्त्यंत्रैष्टुभमैन्द्रं गायत्सप्तोनेत्यनुक्रान्तं समूह्ळेदशरात्रेतृती- येछन्दोमेमरुत्वतीयशस्त्रीतत्सूक्तं विश्वजितोग्निंनरइतिखण्डेसूत्रितम्—तृतीयस्येन्द्रः स्वाहागायत्सा- मेति ।

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२