मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७३, ऋक् १

संहिता

गाय॒त्साम॑ नभ॒न्यं१॒॑ यथा॒ वेरर्चा॑म॒ तद्वा॑वृधा॒नं स्व॑र्वत् ।
गावो॑ धे॒नवो॑ ब॒र्हिष्यद॑ब्धा॒ आ यत्स॒द्मानं॑ दि॒व्यं विवा॑सान् ॥

पदपाठः

गाय॑त् । साम॑ । न॒भ॒न्य॑म् । यथा॑ । वेः । अर्चा॑म । तत् । व॒वृ॒धा॒नम् । स्वः॑ऽवत् ।
गावः॑ । धे॒नवः॑ । ब॒र्हिषि॑ । अद॑ब्धाः । आ । यत् । स॒द्मान॑म् । दि॒व्यम् । विवा॑सान् ॥

सायणभाष्यम्

हेइन्द्र नभन्यंनभस्यंनभसिभवंनभोव्यापिनं हिंसकंवाराक्षसादिकस्य नभतिर्वधकर्मा नभतिअर्द- तीतिवधकर्मसुगणनात् तादृशंसाम हेइन्द्र यथावेः येनप्रकारेणवेत्सि तथा गायत् गायति उद्गतात्त- स्मात् यतः स्तौति ततःकारणात् ववृधानंवर्धमानंस्वर्वत् फलभूतेनस्वर्गेणतद्वत् शस्त्रंयथावेस्तथार्चा- मपूजयाम शंसामेत्यर्थः स्तुतमनुशंसतीतिन्यायात् यद्वा तत् उक्तलक्षणंसाम ववृधानं सर्वत्रयथाभव- तितथार्चाम किञ्च बर्हिषियज्ञेधेनवोदोग्ध्र्यः अदब्धाः अहिंसिताः गावः यत् सद्मानं सीदन्तंदिव्यंदि- विभवमिन्द्रंत्वांआविवासान् विवासतिः परिचरणकर्मा आगत्यपरिचरन्ति क्षीरंदुहन्तितथार्चाम ॥ १ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३