मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७३, ऋक् ५

संहिता

तमु॑ ष्टु॒हीन्द्रं॒ यो ह॒ सत्वा॒ यः शूरो॑ म॒घवा॒ यो र॑थे॒ष्ठाः ।
प्र॒ती॒चश्चि॒द्योधी॑या॒न्वृष॑ण्वान्वव॒व्रुष॑श्चि॒त्तम॑सो विह॒न्ता ॥

पदपाठः

तम् । ऊं॒ इति॑ । स्तु॒हि॒ । इन्द्र॑म् । यः । ह॒ । सत्वा॑ । यः । शूरः॑ । म॒घवा॑ । यः । र॒थे॒ऽस्थाः ।
प्र॒ती॒चः । चि॒त् । योधी॑यान् । वृष॑ण्ऽवान् । व॒व॒व्रुषः॑ । चि॒त् । तम॑सः । वि॒ऽह॒न्ता ॥

सायणभाष्यम्

तमु तमेवेन्द्रंस्तुहि हेहोतः स्तुतिंकुरु किमस्याधिक्यमिति उच्यते योह यःखलु सत्वा अतिप्रभूत- बलः यद्वा सत्वा सादकःशत्रूणां यश्चशूरः शौर्योपेतः मघवाबलवानन्नवान्वा यश्चरथेष्ठाः रथेवर्तमानः किञ्च प्रतीचश्चित् प्रत्यभिमुखंयोद्धुरपियोधीयान् योद्धृतमः प्रतिपूर्वादञ्चतेः क्विन्नंतात् लुप्तनकारा- च्छसि अचइत्यकारलोपे चावितिदीर्घः अञ्चेश्छन्दस्यसर्वनामस्थानमितिविभक्तिरुदात्ता वृषण्वान् वृषाणोवर्षितारोवज्रादयः तद्वान् वृषातेवज्रउततेवृषारथइतिहिनिगमः । तथाववब्रुषश्चित् आवरक- स्यापितमसोमेघादिर्विहन्ताविशेषेणघातकः यस्मादेवंमहानुभावः तस्मात्स्तुहि ॥ ५ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३