मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७३, ऋक् ६

संहिता

प्र यदि॒त्था म॑हि॒ना नृभ्यो॒ अस्त्यरं॒ रोद॑सी क॒क्ष्ये॒३॒॑ नास्मै॑ ।
सं वि॑व्य॒ इन्द्रो॑ वृ॒जनं॒ न भूमा॒ भर्ति॑ स्व॒धावाँ॑ ओप॒शमि॑व॒ द्याम् ॥

पदपाठः

प्र । यत् । इ॒त्था । म॒हि॒ना । नृऽभ्यः॑ । अस्ति॑ । अर॑म् । रोद॑सी॒ इति॑ । क॒क्ष्ये॒३॒॑ इति॑ । न । अ॒स्मै॒ ।
सम् । वि॒व्ये॒ । इन्द्रः॑ । वृ॒जन॑म् । न । भूम॑ । भर्ति॑ । स्व॒धाऽवा॑न् । ओ॒प॒शम्ऽइ॑व । द्याम् ॥

सायणभाष्यम्

यत् यइन्द्रोमहिनामहत्त्वेनस्वैश्वर्येणनृभ्योनेतृभ्यः कर्मनिर्वाहकेभ्योयजमानेभ्यः प्रास्ति प्रभवति ईष्टेस्वर्गादिप्रदानेनरक्षितुं अम्सैरक्षकायेन्द्रायरोदसीद्यावापृथिव्यौकक्ष्येकक्ष्यायतेसतीसञ्चारायनारं- नालंनपर्याप्तेजगतोधीशस्येन्द्रस्यसञ्चारायाल्पत्वात् द्यावापृथिव्यौनपर्याप्तेइत्यर्थः सृज्यादपिस्रष्टुर्म- हिम्नोधिकत्वादितिभावः अयमिन्द्रोवृजनंनभूम भूमिंभूतानिवावृजनंन बलमिव वृजतेःकर्तनार्थस्ये- दंरूपं तदिव तद्यथा आवृणोतितथायमपिस्वतेजसासंविव्ये सम्यगावृणोतिलोकत्रयं किंचायंस्वधा- वानन्नावान्वृष्टिलक्षणोदकवान्वा द्यांदिवंभर्तिबिभर्ति धारणेदृष्टान्तः—ओपशमिव ईषदुपशेतेइत्यो- पशंश्रृङ्गं तत् वृषभइव यद्वा परस्परंसमीपेवर्तमानांक्षित्यन्तरिक्षाख्यं लोकद्वयमोपशं तदिव द्यां- बिभर्ति लोकत्रयमपिबिभर्तित्यर्थः भृञोलटिछान्दसःशपोलुक् ॥ ६ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४