मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७३, ऋक् ७

संहिता

स॒मत्सु॑ त्वा शूर स॒तामु॑रा॒णं प्र॑प॒थिन्त॑मं परितंस॒यध्यै॑ ।
स॒जोष॑स॒ इन्द्रं॒ मदे॑ क्षो॒णीः सू॒रिं चि॒द्ये अ॑नु॒मद॑न्ति॒ वाजै॑ः ॥

पदपाठः

स॒मत्ऽसु॑ । त्वा॒ । शू॒र॒ । स॒ताम् । उ॒रा॒णम् । प्र॒प॒थिन्ऽत॑मम् । प॒रि॒ऽतं॒स॒यध्यै॑ ।
स॒ऽजोष॑सः । इन्द्र॑म् । मदे॑ । क्षो॒णीः । सू॒रिम् । चि॒त् । ये । अ॒नु॒ऽमद॑न्ति । वाजैः॑ ॥

सायणभाष्यम्

हेशूर शौर्योपेतेन्द्र समत्सुसंग्रामेषु सतांत्वामेवाश्रित्यवर्तमानानांप्राणिनामुराणं उरूणि अतिप्र- भूतानिबलादीनिकुर्वाणंप्रपथिंतमंप्रकृष्टमार्गतमंसुकृतिनामुत्तममार्गभूतंइन्द्रंशात्रूणांदारकं त्वात्वां परितंसयध्यै अवतंसीकर्तुंभूषणीकर्तुंमदेतवमदार्थंच सजोषसः सहसेवमानाः समानप्रीतयोवा क्षोणीः क्षोण्योविशःपरिजनाः मरुतः प्रयतन्ते कीदृशास्ते येवाजैर्बलैः अनुमदन्तिअनुकूलंमादयन्ति संग्रामे- मरुतः त्वामेवस्वामिनंकृत्वामादयन्तिहर्षयन्तीत्यर्थः यद्वा येयजमानाः वाजैर्हविर्भिर्मादयन्तितेसमा- नप्रीतियुक्तास्तवमनुष्यभूताऋत्विजः यजमानभूताः प्रजाः समत्सुसहमादनस्थानेषुयागेषूक्तलक्षण- विशिष्टंत्वामेवपूजयितुं तवमदायचप्रयतन्ते ॥ ७ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४