मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७३, ऋक् ८

संहिता

ए॒वा हि ते॒ शं सव॑ना समु॒द्र आपो॒ यत्त॑ आ॒सु मद॑न्ति दे॒वीः ।
विश्वा॑ ते॒ अनु॒ जोष्या॑ भू॒द्गौः सू॒रीँश्चि॒द्यदि॑ धि॒षा वेषि॒ जना॑न् ॥

पदपाठः

ए॒व । हि । ते॒ । शम् । सव॑ना । स॒मु॒द्रे । आपः॑ । यत् । ते॒ । आ॒सु । मद॑न्ति । दे॒वीः ।
विश्वा॑ । ते॒ । अनु॑ । जोष्या॑ । भू॒त् । गौः । सू॒रीन् । चि॒त् । यदि॑ । धि॒षा । वेषि॑ । जना॑न् ॥

सायणभाष्यम्

हेइन्द्र एवाहिएवंहिसतितेतवसंबन्धीनि सवना सवनानि सूयतेसोमोत्रेतिसवनानिसोमयागाः ते शंसुखकराभवन्ति कथंसति यत् यदिदेवीः देव्योद्योतमानाआपः समुद्रेउदकसमुद्द्रवणापादानभूतेन्त- रिक्षेआसुप्रजासुनिमित्तभूतासुतेत्वांमदन्तिमादयन्ति अन्तर्भावितण्यर्थोयं यदाप्राण्युपकारार्थंवर्षणा- यत्वांप्रेरयन्तिवृष्ट्युदकानि तदाखलुतवसोमयागाः सुखकराभवन्ति यज्ञसाधकवृष्टिप्रदानेनयागान्नि- वर्तयेत्यर्थः किञ्च हेइन्द्र तेत्वांविश्वागौः सर्वापिस्तोत्रशस्त्ररूपावाक् तेत्वी अनुक्रमेणजोप्याजोषणा- र्हाप्रीणयित्रीभूतभवति कदायदिसूरींश्चित् स्तोत्रादिप्रेरयितॄन् स्तोतृजनानपिधिषाधिषणयाप्रज्ञया- वृष्टिप्रदानरूपेणकर्मणावावेषिकामयसे तदासर्वापिस्तुतिस्त्वदर्थाभवति ॥ ८ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४