मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७३, ऋक् १०

संहिता

विष्प॑र्धसो न॒रां न शंसै॑र॒स्माका॑स॒दिन्द्रो॒ वज्र॑हस्तः ।
मि॒त्रा॒युवो॒ न पूर्प॑तिं॒ सुशि॑ष्टौ मध्या॒युव॒ उप॑ शिक्षन्ति य॒ज्ञैः ॥

पदपाठः

विऽस्प॑र्धसः । न॒राम् । न । शंसैः॑ । अ॒स्माक॑ । अ॒स॒त् । इन्द्रः॑ । वज्र॑ऽहस्तः ।
मि॒त्र॒ऽयुवः॑ । न । पूःऽप॑तिम् । सुऽशि॑श्टौ । म॒ध्य॒ऽयुवः॑ । उप॑ । शि॒क्ष॒न्ति॒ । य॒ज्ञैः ॥

सायणभाष्यम्

नरांनेतॄणांमध्येसस्पर्धान्नरान्यथाविस्पर्धसः कुर्वन्तिसखिभूताः तद्वद्वयमपीन्द्रंशंसैः स्तुतिभिः सखायोवयंतथाकुर्मः सचवज्रहस्तोवीरशिक्षणायसर्वदावज्रधारीन्द्रः अस्माक अस्माकमसत् विस्प- र्धमनुकूलोभवतु किञ्च मित्रायुवोन मित्रेच्छवः हितैषिणइव सुशिष्टौसुशासनेवर्तमानंपूर्पतिंपुरस्वा- मिनंयथाभिमतदानेनपूजयन्तितथामध्यायुवः अस्माकंश्रियांयशसांचमध्येवस्थितिंकामयमाना- अध्वर्य्वादयोयज्ञैर्यज्ञसाधनैर्हविःस्तोत्रादिभिरुपशिक्षन्तिउपेत्ययजन्ते शिक्षतिर्दानकर्मा ॥ १० ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४