मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७३, ऋक् १२

संहिता

मो षू ण॑ इ॒न्द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः ।
म॒हश्चि॒द्यस्य॑ मी॒ळ्हुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ॥

पदपाठः

मो इति॑ । सु । नः॒ । इ॒न्द्र॒ । अत्र॑ । पृ॒त्ऽसु । दे॒वैः । अस्ति॑ । हि । स्म॒ । ते॒ । शु॒ष्मि॒न् । अ॒व॒ऽयाः ।
म॒हः । चि॒त् । यस्य॑ । मी॒ळ्हुषः॑ । य॒व्या । ह॒विष्म॑तः । म॒रुतः॑ । वन्द॑ते । गीः ॥

सायणभाष्यम्

हेइन्द्र अत्रपृत्सु एषूप्स्थितेश्झुसङ्ग्रामेषुवृष्ट्यर्थंमेघजयेषुदेवैर्मरुदादिभिः सहनोस्मान् मोषुमै- वात्याक्षीरितिशेषः मरुत्सहितोयुध्यस्वेत्यर्थः हेशुष्मिन्बलवन्निन्द्र अस्तिहिस्मते अस्तिहिस्मतवखलु तवकिमस्तीतिउच्यते अवयाः अवयजनं अवयुज्यपृथक् कृत्ययजनंहविर्भागोस्तिमरुद्भ्यः पृथगप्य- स्तिहविर्भागः केवलंमरुद्भ्यएवदीयतेनास्मभ्यं अतः कथंयोत्स्यामीतिनमन्तव्यमित्यर्थः यद्वा अवयाः शत्रूणांवर्जनायगन्तावज्रोस्तिते किञ्च हविष्मतः प्रदेयहविर्युक्तस्यमीह्ळुषोहविः प्रदातुः यद्वैत्पदद्वयं- मरुतांविशेषणं यस्यममयव्याफलेनेन्द्रेणवासहमिश्रयन्तीगीः स्तुतिशस्त्रादिरूपावाक् महश्चित् मह- तोपिमीह्ळुषःसेक्तॄन् हविष्मतोस्मद्दत्तहविषातद्वतोमरुतोवंदतेस्तौति ॥ १२ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५