मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७४, ऋक् १

संहिता

त्वं राजे॑न्द्र॒ ये च॑ दे॒वा रक्षा॒ नॄन्पा॒ह्य॑सुर॒ त्वम॒स्मान् ।
त्वं सत्प॑तिर्म॒घवा॑ न॒स्तरु॑त्र॒स्त्वं स॒त्यो वस॑वानः सहो॒दाः ॥

पदपाठः

त्वम् । राजा॑ । इ॒न्द्र॒ । ये । च॒ । दे॒वाः । रक्ष॑ । नॄन् । पा॒हि । अ॒सु॒र॒ । त्वम् । अ॒स्मान् ।
त्वम् । सत्ऽप॑तिः । म॒घऽवा॑ । नः॒ । तरु॑त्रः । त्वम् । स॒त्यः । वस॑वानः । स॒हः॒ऽदाः ॥

सायणभाष्यम्

हेइन्द्र त्वंराजा अधिपतिः सर्वस्यजगतः किञ्च येदेवाः मरुदादयःसन्तितेषामपिविशेषेण अतोहे- असुर शत्रूणांनिरसितस्त्वंनॄनस्मान कर्मनेतॄन् यजमानान् रक्षपालय विशेषतोस्मानपिपाहिरक्ष त्वंच सत्पतिः सतांसतः कर्मफ्लस्यवापातामघवाधनवान् नोस्माकंतरुत्रः तारयितापापात् किञ्च त्वंस- त्यः अबाध्यः सत्यफलोवा वसवानः स्वतेजसार्वंछादयन् वसूनिवाकुर्वन् स्तोतृभ्यः सहोदाः सहसो- बलस्यदाताबवेतिशॆषः ॥ १ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६