मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७४, ऋक् ५

संहिता

वह॒ कुत्स॑मिन्द्र॒ यस्मि॑ञ्चा॒कन्त्स्यू॑म॒न्यू ऋ॒ज्रा वात॒स्याश्वा॑ ।
प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॒ऽभि स्पृधो॑ यासिष॒द्वज्र॑बाहुः ॥

पदपाठः

वह॑ । कुत्स॑म् । इ॒न्द्र॒ । यस्मि॑न् । चा॒कन् । स्यू॒म॒न्यू इति॑ । ऋ॒ज्रा । वात॑स्य । अश्वा॑ ।
प्र । सूरः॑ । च॒क्रम् । वृ॒ह॒ता॒त् । अ॒भीके॑ । अ॒भि । स्पृधः॑ । या॒सि॒ष॒त् । वज्र॑ऽबाहुः ॥

सायणभाष्यम्

हेइन्द्र कुत्स्ंएतन्नामानमृषिंप्राप्तंस्यूमन्यू स्यूमकमितिसुखनाम तदिच्छन्तौसततगामिनौवाऋज्रा- ऋजुगामिनौवातस्यवायोः समानवेगौ अश्वा तदीयावश्वौवहप्रस्थापय यस्मिन्हविषि निमित्तभूतेस- तिकुत्संचाकन्कामयसेतर्पयसेवाहविरादिकंतदर्थंसूरः प्रेरकः सूर्यः चक्रंस्वमण्डलंस्वरथचक्रंवाअभीके- आसन्नदेशेप्रवृहतात् ऊर्ध्वंगमयतु प्रकाशयतु अथपरोक्षेणाह—वज्रबाहुरयमिन्द्रः स्पृधः सङ्ग्रामंकुर्व- तः शत्रूनभियासिषत् अभियातु ॥ ५ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६