मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७४, ऋक् ७

संहिता

रप॑त्क॒विरि॑न्द्रा॒र्कसा॑तौ॒ क्षां दा॒सायो॑प॒बर्ह॑णीं कः ।
कर॑त्ति॒स्रो म॒घवा॒ दानु॑चित्रा॒ नि दु॑र्यो॒णे कुय॑वाचं मृ॒धि श्रे॑त् ॥

पदपाठः

रप॑त् । क॒विः । इ॒न्द्र॒ । अ॒र्कऽसा॑तौ । क्षाम् । दा॒साय॑ । उ॒प॒ऽबर्ह॑णीम् । क॒रिति॑ कः ।
कर॑त् । ति॒स्रः । म॒घऽवा॑ । दानु॑ऽचित्राः । नि । दु॒र्यो॒णे । कुय॑वाचम् । मृ॒धि । श्रे॒त् ॥

सायणभाष्यम्

हेइन्द्र त्वांकविः क्रान्तदर्श्यनूचानोवाहोतार्कसातौ अर्चनीयस्यान्नस्यलाभेनिमित्तभूतेसति रप- त्स्तौ ति यद्वा एतन्नामाऋषिः रपन् अस्तौन अन्नार्थंतस्यातिप्रभुतमन्नंप्रादाइत्यर्थः तथाच दासा- यप्राण्युपक्षपयित्रेअसुराय क्षांभूमिंउपबर्हणींशय्यांकःअकरोः हत्वाभूमावपातयइत्यर्थः तथाच दा- सायप्राण्युपक्षपयित्रेअसुराय क्षांभूमिंउपबर्हणींशय्यांकःअकरोः हत्वाभूमावपातयइत्यर्थः करोतेर्लुङि मन्त्रेघसेतिच्लेर्लुक् अथपरोक्षकृतः मघवाधनवानयमिन्द्रःतिस्रोभूमीः दार्शिकपाशुकसोमिकरूपाभू- मीः क्षित्यन्तरिक्षद्युरूपावाभूमीर्दानुचित्राः दानेनदेयैर्धनैर्वाचायनीयाः करत्करोति यद्वा तिस्रः अयोरजतहिरण्यमयाःपुरीर्दानुचित्राः खण्डनेनचित्राअकरोत् तथादुर्योणेदुष्टयोनौस्थानेएतन्नामक- स्यराज्ञः प्रीत्यर्थंवाकुयवाचंकुत्सितंशब्दयन्तं एतन्नामानमसुरंमृधिसङ्ग्रामेनिः क्षेत् हिंसितवान् ॥ ७ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७