मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७४, ऋक् ९

संहिता

त्वं धुनि॑रिन्द्र॒ धुनि॑मतीरृ॒णोर॒पः सी॒रा न स्रव॑न्तीः ।
प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया॑ तु॒र्वशं॒ यदुं॑ स्व॒स्ति ॥

पदपाठः

त्वम् । धुनिः॑ । इ॒न्द्र॒ । धुनि॑ऽमतीः । ऋ॒णोः । अ॒पः । सी॒राः । न । स्रव॑न्तीः ।
प्र । यत् । स॒मु॒द्रम् । अति॑ । शू॒र॒ । पर्षि॑ । पा॒रय॑ । तु॒र्वश॑म् । यदु॑म् । स्व॒स्ति ॥

सायणभाष्यम्

हेइन्द्र त्वंधुनिः कम्पयिताशत्रूणामसि अतोधुनिमतीः कम्पनोपेततरङ्गवतीः अथवा धुनिर्नाम- जलप्रतिरोधकार्यसुरः सएवप्रतिबन्धकतयायासां तादृशीरपःऋणोः अगमयःभूमावपातयः तत्रदृष्टा- न्तः—भवन्तीःप्रवहन्तीःसीराःन नदीनामैतत् सरणवतीर्नदीरिव तद्वत्सन्तताइत्यर्थः एवंकृत्वा हेशूर यत् यदासमुद्रमतिपर्षि अतिक्रम्यपूरयस्युदकं तदानीं तुर्वशंयदुं उभावपिराजर्षी स्वस्ति अविनाशं- पारय अपालयः संपूर्णजलवर्षणेन तथाचमन्त्रान्तरं—त्वमपोयदवेतुर्वशायारमयइति ॥ ९ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७