मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७४, ऋक् १०

संहिता

त्वम॒स्माक॑मिन्द्र वि॒श्वध॑ स्या अवृ॒कत॑मो न॒रां नृ॑पा॒ता ।
स नो॒ विश्वा॑सां स्पृ॒धां स॑हो॒दा वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

पदपाठः

त्वम् । अ॒स्माक॑म् । इ॒न्द्र॒ । वि॒श्वध॑ । स्याः॒ । अ॒वृ॒कऽत॑मः । न॒राम् । नृ॒ऽपा॒ता ।
सः । नः॒ । विश्वा॑साम् । स्पृ॒धाम् । स॒हः॒ऽदाः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

सायणभाष्यम्

हेइन्द्र त्वमस्माकंविश्वध विश्वस्मिन्नपिकालेविश्वप्रकारैर्वाअवृकतमः अहिंसकतमः यद्वा दातृतम- इत्यर्थः स्याः भव तथानरांनृपाताअस्मदीयानांपुत्रभृत्यादिरूपाणांबहूनांमनुष्याणां सर्वदारक्षकोभव अपरोनृशब्दोनुवादः किञ्च सत्वंविश्वासांस्पृधांसर्वासांस्पर्धानिमित्तानांअस्मत्सेनानांसहोदाः तासा- मर्थायबलस्यदातभव विद्यामेतिगतम् ॥ १० ॥

मत्स्यपायीतिषळृचमेकादशंसूक्तंआगस्त्यमैन्द्रं आद्यास्कन्धोग्रीवीबृहती द्वितीयपादस्य द्वादशा- क्षरत्वात् इतरेषांत्रयाणामष्टाक्षरत्वाच्च द्वितीयश्चेन्न्यंकुसारिण्युरोवृहतीवास्कन्धोग्रीवीवेत्युक्तलक्षण- सद्भावात् अन्त्यात्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषया आनुष्टुभन्त्वितिविशेषवचनेनापोहितत्वादनुष्टु- भः मत्सिषळानुष्टुबंतुत्रिष्टुबन्तंत्वाद्यास्कन्धोग्रीवीत्यनुक्रान्तम् । द्वितीयेस्वरसाम्नि आद्यस्तृचःस्तो- त्रियः अभिजिद्बृहत्पृष्ठइतिखण्डेसूत्रितम्—मत्स्यपायितेमहएमेनंप्रत्येतनेति ।

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७