मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७५, ऋक् १

संहिता

मत्स्यपा॑यि ते॒ मह॒ः पात्र॑स्येव हरिवो मत्स॒रो मदः॑ ।
वृषा॑ ते॒ वृष्ण॒ इन्दु॑र्वा॒जी स॑हस्र॒सात॑मः ॥

पदपाठः

मत्सि॑ । अपा॑यि । ते॒ । महः॑ । पात्र॑स्यऽइव । ह॒रि॒ऽवः । म॒त्स॒रः । मदः॑ ।
वृषा॑ । ते॒ । वृष्णे॑ । इन्दुः॑ । वा॒जी । स॒ह॒स्र॒ऽसात॑मः ॥

सायणभाष्यम्

हेहरिवः हरिभ्यांतद्वन्निन्द्र महोमहान् पूज्योयंसोमः पात्रस्येवतत्पात्रेणेवसोमपात्रेणयथाधार्यते सोमः तत्सदृशेनतेत्वया तृतीयार्थेषष्ठी यद्वा पात्रस्येवतेतवस्वभूतोमहोमहान्सोमइतिवायोजना अ- पायि पीयते आशंसायाविवक्षितत्वात् भूतवत्प्रयोगः यतः पिबसिअतोमत्सि माद्यसिमादयस्ववा- त्रेयथासोमःपूर्यतेतथात्यधिकंपिब पीत्वाचमादयस्वेत्यर्थः किञ्च वृष्णेतेअभिमतवर्षित्रेतुभ्यं चतुर्थ्य- र्थेषष्ठीमत्सरोमदसाधनः मदस्तर्पयिता वृषावर्षिता इन्दुःक्लेदयिता आह्लादकारीत्यर्थः वाजी अन्न- वान् अन्नवत्तृप्तिसद्भावादन्नवानित्युच्यते सहस्रसातमः अपरिमितदातृतमः सहस्रपुरुषसंभजनपर्या- प्तशक्त्यतिशयोवा एवंमहानुभावः सोमः संपादितः तंपिबेत्यर्थः ॥ १ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८