मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७५, ऋक् २

संहिता

आ न॑स्ते गन्तु मत्स॒रो वृषा॒ मदो॒ वरे॑ण्यः ।
स॒हावाँ॑ इन्द्र सान॒सिः पृ॑तना॒षाळम॑र्त्यः ॥

पदपाठः

आ । नः॒ । ते॒ । ग॒न्तु॒ । म॒त्स॒रः । वृषा॑ । मदः॑ । वरे॑ण्यः ।
स॒हऽवा॑न् । इ॒न्द्र॒ । सा॒न॒सिः । पृ॒त॒ना॒षाट् । अम॑र्त्यः ॥

सायणभाष्यम्

हेइन्द्र तेत्वांनोस्मदीयः मत्सरोमर्षणसाधनः सोमआगन्तु आगच्छतु कीदृशोयं वृषावर्षकः मद- स्तर्पयितावरेण्योवरणीयः सहावान् सहायवान् सहसाबलेनतद्वानवा सानसिः संभजनीयः पृतनाषा- ट् शत्रुसेनायाअभिभविता अमर्त्यः अविनाशी ईदृश्सोमस्त्वामागच्छतु यद्वा उत्तरार्धइन्द्रपरतयाव्या- ख्येयः हेइन्द्र सहवान् अस्मद्दत्तसोमसहायवान् सन् बलवान् वा सानसिःअस्माभिः संभजनीयः पृत- नाषाट् अमर्त्यश्चभवसि ॥ २ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८