मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७५, ऋक् ३

संहिता

त्वं हि शूर॒ः सनि॑ता चो॒दयो॒ मनु॑षो॒ रथ॑म् ।
स॒हावा॒न्दस्यु॑मव्र॒तमोष॒ः पात्रं॒ न शो॒चिषा॑ ॥

पदपाठः

त्वम् । हि । शूरः॑ । सनि॑ता । चो॒दयः॑ । मनु॑षः । रथ॑म् ।
स॒हऽवा॑न् । दस्यु॑म् । अ॒व्र॒तम् । ओषः॑ । पात्र॑म् । न । शो॒चिषा॑ ॥

सायणभाष्यम्

हेइन्द्र त्वंहित्वंखलुशूरः शौर्योपेतः सनितादासि अतोमनुषोमनुष्यस्यमेरथंरंहणस्वभावंस्यन्दनं- मनोरथंवास्वर्गगमनसाधनंयज्ञाख्यंरथंवाचोदयः प्रेरय किञ्च त्वंसहावान् सोमसहायवान् बलवान्वा- भूत्वा दस्युमुपक्षपयितारमव्रतं अपर्माणं अननुष्ठायिनंओषः दह किमिव शोचिषादीप्त्या ज्वालयाग्निः पात्रंन स्वाधारंपात्रविशेषमिव यागाधिकारीसन् योनयजतेतंदहेत्यर्थः ॥ ३ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८