मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७५, ऋक् ५

संहिता

शु॒ष्मिन्त॑मो॒ हि ते॒ मदो॑ द्यु॒म्निन्त॑म उ॒त क्रतु॑ः ।
वृ॒त्र॒घ्ना व॑रिवो॒विदा॑ मंसी॒ष्ठा अ॑श्व॒सात॑मः ॥

पदपाठः

शु॒ष्मिन्ऽत॑मः । हि । ते॒ । मदः॑ । द्यु॒म्निन्ऽत॑मः । उ॒त । क्रतुः॑ ।
वृ॒त्र॒ऽघ्ना । व॒रि॒वः॒ऽविदा॑ । मं॒सी॒ष्ठाः । अ॒श्व॒ऽसात॑मः ॥

सायणभाष्यम्

हेइन्द्र तेतवमदः सोमपानजनितः शुष्मिन्तमः बलवत्तमः हिप्रसिद्धम् उतअपिचतेक्रतुः कर्मव्या- पारोस्मदर्थोद्युम्निन्तमः अतिशयेनान्नवान् यशोवान्वाउभयत्रायस्मयादीनिछन्दसीति भसंज्ञायबा- धितत्वात् नलोपः हेइन्द्र अश्वसातमः अश्वोपलक्षितबहुधनदाः त्वंवृत्रघ्ना वृत्रघातिनोवरिवोविदा- धनस्यपरिचरणस्यवावेदयितारौलंभयितारौतवमदक्रतूमसीष्ठाः अनुज्ञातवानसि शत्रुघातिनौधन- दातारौचस्यातामित्यनुग्रहमकरोरित्यर्थः ॥ ५ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८