मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७६, ऋक् १

संहिता

मत्सि॑ नो॒ वस्य॑इष्टय॒ इन्द्र॑मिन्दो॒ वृषा वि॑श ।
ऋ॒घा॒यमा॑ण इन्वसि॒ शत्रु॒मन्ति॒ न वि॑न्दसि ॥

पदपाठः

मत्सि॑ । नः॒ । वस्यः॑ऽइष्टये । इन्द्र॑म् । इ॒न्दो॒ इति॑ । वृषा॑ । आ । वि॒श॒ ।
ऋ॒घा॒यमा॑णः । इ॒न्व॒सि॒ । शत्रु॑म् । अन्ति॑ । न । वि॒न्द॒सि॒ ॥

सायणभाष्यम्

हेइन्द्रो क्लेदयितः सोम त्वंनोवस्यइष्ट्ये वसीयसोधनस्यप्राप्तयेउक्षणाययागायवाइन्द्रंमत्सिमा- दयस्व तदर्थंवृषार्षिताकामानां त्वमिन्द्रं आविश अथतथापीतः सन् ऋघायमाणः शत्रून् हिंसयन् इ- न्वसिव्याप्नोषि अतः अन्तिअन्तिकेशत्रुंनविन्दसिनलभसे यतः शत्रवः त्वत्सामर्थ्येनपलायिताः अतः नविन्दसि यद्वा उत्तरार्धइन्द्रपरतयाव्याख्येयः हेइन्द्र त्वंतं सोमंपीत्वाऋघायमाणःसन् इन्वसि अन्तिकेशत्रुंनविन्दसि ॥ १ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९