मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७६, ऋक् २

संहिता

तस्मि॒न्ना वे॑शया॒ गिरो॒ य एक॑श्चर्षणी॒नाम् ।
अनु॑ स्व॒धा यमु॒प्यते॒ यवं॒ न चर्कृ॑ष॒द्वृषा॑ ॥

पदपाठः

तस्मि॑न् । आ । वे॒श॒य॒ । गिरः॑ । यः । एकः॑ । च॒र्ष॒णी॒नाम् ।
अनु॑ । स्व॒धा । यम् । उ॒प्यते॑ । यव॑म् । न । चर्कृ॑षत् । वृषा॑ ॥

सायणभाष्यम्

हेअन्तरात्मन् होतर्वा तस्मिन्प्रसिद्धे इन्द्रे गिरः स्तुतिरूपावाचः आवेशयस्थापय तंस्तुहीत्यर्थः यइन्द्रश्चर्षणीनां ज्ञानवतांमनुष्याणांएकः एकएवस्थानीयः यमनुयमेवेन्द्रमनु स्वधाहविर्लक्षणमन्न- मुप्यते दीयतइत्यर्थः सचेन्द्रोवृषावर्षकःसन् यवंन यवमिव पक्वंयवंयथाचर्कृषत् क्रमेणाददतेकर्षकाः तद्वदादत्ते यद्वायंअनुस्वधाअन्नसाधनंव्रीह्यादिकंउप्यतेभूमौ यस्येन्द्रस्यवृष्टिरूपमनुग्रहमपेक्ष्योप्यत- इत्यर्थः सचवृषावृष्टेर्वर्षितासइन्द्रोयवंन यवमिव सर्वबीजमपिचर्कृषत् पुनःपुनःकरोतिअङ्कुरयति हविःसाधनत्वप्राशस्त्यमपेक्ष्यवशब्दःप्रयुक्तः एवंमहानुभावेइन्द्रे गिरआवेशयेति ॥ २ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९