मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७६, ऋक् ३

संहिता

यस्य॒ विश्वा॑नि॒ हस्त॑यो॒ः पञ्च॑ क्षिती॒नां वसु॑ ।
स्पा॒शय॑स्व॒ यो अ॑स्म॒ध्रुग्दि॒व्येवा॒शनि॑र्जहि ॥

पदपाठः

यस्य॑ । विश्वा॑नि । हस्त॑योः । पञ्च॑ । क्षि॒ती॒नाम् । वसु॑ ।
स्पा॒शय॑स्व । यः । अ॒स्म॒ऽध्रुक् । दि॒व्याऽइ॑व । अ॒शनिः॑ । ज॒हि॒ ॥

सायणभाष्यम्

यस्येन्द्रस्यहस्तयोः पञ्चक्षितीनां क्षियन्तिनिवसन्तिगच्छन्तिवाक्षितयोमनुष्याः पञ्चानांमनुष्या- णांप्रीणयितॄणिविश्वानिसर्वाणि वसूवसूनि धनानि धृतानिभवन्ति देवामनुष्याःपितरः पशवः पक्षिण श्चेतिपञ्चजनाः चत्वारोवर्णानिषादपञ्चमाःपञ्चजनाइत्यन्ये हेतादृशेन्द्रत्वंस्पाशयस्व बाधयस्व योऽ– स्मध्रुक् अम्सभ्यंद्रुह्यतितं केनप्रकारेणेतिसउच्यते दिव्यादिविभवा अशनिरिव अशनिर्भूत्वास्मद्द्वेष्टृन् जहि ॥ ३ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९