मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७६, ऋक् ४

संहिता

असु॑न्वन्तं समं जहि दू॒णाशं॒ यो न ते॒ मयः॑ ।
अ॒स्मभ्य॑मस्य॒ वेद॑नं द॒द्धि सू॒रिश्चि॑दोहते ॥

पदपाठः

असु॑न्वन्तम् । स॒म॒म् । ज॒हि॒ । दुः॒ऽनश॑म् । यः । न । ते॒ । मयः॑ ।
अ॒स्मभ्य॑म् । अ॒स्य॒ । वेद॑नम् । द॒द्धि । सू॒रिः । चि॒त् । ओ॒ह॒ते॒ ॥

सायणभाष्यम्

हेइन्द्र असुन्वन्तं सोमाभिषवमकुर्वाणंत्वामयजन्तमित्यर्थः दूणाशंदुःखेननाशनीयंसमं अयंसर्वा- नुदात्तः सर्वशब्दपर्यायः अयष्टृन् सर्वान् यद्वा समंएकोद्योगेन अविशेषेणवाजहि तेनकिमपराद्धमित्य- तआह यस्तेतवमयः मयइतिसुखनाम तवसुखहेतुर्नभवति योहोमेनस्तुत्यावानप्रीणातितंजहि किञ्चा- स्यवेदनंधनमस्मभ्यंदद्धिदेहि दददानेइत्यस्माद्भ्यत्ययेनपरस्मैपदम् छान्दसः शपोलुक् सूरिश्चिदोहते चिदेवार्थे सूरिस्तवस्तोतैव ओहते वहतिप्राप्नोतिधनम् ॥ ४ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९