मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७६, ऋक् ६

संहिता

यथा॒ पूर्वे॑भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ ।
तामनु॑ त्वा नि॒विदं॑ जोहवीमि वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

पदपाठः

यथा॑ । पूर्वे॑भ्यः । ज॒रि॒तृऽभ्यः॑ । इ॒न्द्र॒ । मयः॑ऽइव । आपः॑ । न । तृष्य॑ते । ब॒भूथ॑ ।
ताम् । अनु॑ । त्वा॒ । नि॒ऽविद॑म् । जो॒ह॒वी॒मि॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

सायणभाष्यम्

यथापूर्वेभ्यइतिषष्ठीव्याख्याता ॥ ६ ॥

आचर्षणिप्राइतिपञ्चर्चंत्रयोदशंसूक्तं आगस्त्यमैन्द्रंत्रैष्टुभं आचर्षणिप्राःपञ्चेत्यनुक्रमणिका । होत्रकशस्त्रेषुस्तोमवृद्धावस्यविशेषविनियोगः ऎन्द्राणित्रैष्टुभान्यमरुच्छब्दान्यावपेरन्निति सूत्रितत्वात् ।

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९