मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७७, ऋक् १

संहिता

आ च॑र्षणि॒प्रा वृ॑ष॒भो जना॑नां॒ राजा॑ कृष्टी॒नां पु॑रुहू॒त इन्द्र॑ः ।
स्तु॒तः श्र॑व॒स्यन्नव॒सोप॑ म॒द्रिग्यु॒क्त्वा हरी॒ वृष॒णा या॑ह्य॒र्वाङ् ॥

पदपाठः

आ । च॒र्ष॒णि॒ऽप्राः । वृ॒ष॒भः । जना॑नाम् । राजा॑ । कृ॒ष्टी॒नाम् । पु॒रु॒ऽहू॒तः । इन्द्रः॑ ।
स्तु॒तः । श्र॒व॒स्यन् । अव॑सा । उप॑ । म॒द्रिक् । यु॒क्त्वा । हरी॑ । वृष॑णा । आ । या॒हि॒ । अ॒र्वाङ् ॥

सायणभाष्यम्

अयमिन्द्रः चर्षणिप्राः चर्षणयोमनुष्याः तेषांधनादिना प्रीणयिता जनानां सर्वेषां वृषभः कामानांवर्षिता तथाकृष्टिनां मनुष्यनामैतत् मनुष्याणांराजास्वामीपुरुहूतः बहुभिराहूतईदृ- शइन्द्रोस्मानाजानात्वाच्छतुवा उत्तरार्धःपरोक्षवादः हेइन्द्र स्तुतोस्माभिः श्रवस्यन् हविर्ल- क्षणान्नमिच्छन् अवसाअस्मद्रक्षणेनतर्पणेनवायुक्तःसन् मद्रिक् मदभिमुखमञ्चन् वृषणावर्ष कौयुवानौ हरीअश्वौयुक्त्वारथेयोजयित्वा अर्वाङ् अस्मदभिमुकमायाहि आगच्छ ॥ १ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०