मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७७, ऋक् २

संहिता

ये ते॒ वृष॑णो वृष॒भास॑ इन्द्र ब्रह्म॒युजो॒ वृष॑रथासो॒ अत्या॑ः ।
ताँ आ ति॑ष्ठ॒ तेभि॒रा या॑ह्य॒र्वाङ्हवा॑महे त्वा सु॒त इ॑न्द्र॒ सोमे॑ ॥

पदपाठः

ये । ते॒ । वृष॑णः । वृ॒ष॒भासः॑ । इ॒न्द्र॒ । ब्र॒ह्म॒ऽयुजः॑ । वृष॑ऽरथासः । अत्याः॑ ।
तान् । आ । ति॒ष्ठ॒ । तेभिः॑ । आ । या॒हि॒ । अ॒र्वाङ् । हवा॑महे । त्वा॒ । सु॒ते । इ॒न्द्र॒ । सोमे॑ ॥

सायणभाष्यम्

हेइन्द्र तेतवसबन्धिनोवृषणोवर्षकायुवानः वर्षणवन्तोवा वृषभासः श्रॆष्ठाः ब्रह्मयुजः परिवृढे- नमन्त्रेणयुज्यमानाः वृषरथासः वर्षणरथवन्तः तत्रनियुक्ताइत्यर्थः ईदृशाःअत्याः अश्वाः येसन्ति- तानातिष्ठ आश्रय आरोह तेभिस्तैःअर्वाङ् अस्मदभिमुखमायाहि आगच्छ वयंच हेइन्द्र सोमेसुते- सति त्वात्वांहवामहे आह्वयामः ॥ २ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०