मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७७, ऋक् ३

संहिता

आ ति॑ष्ठ॒ रथं॒ वृष॑णं॒ वृषा॑ ते सु॒तः सोम॒ः परि॑षिक्ता॒ मधू॑नि ।
यु॒क्त्वा वृष॑भ्यां वृषभ क्षिती॒नां हरि॑भ्यां याहि प्र॒वतोप॑ म॒द्रिक् ॥

पदपाठः

आ । ति॒ष्ठ॒ । रथ॑म् । वृष॑णम् । वृषा॑ । ते॒ । सु॒तः । सोमः॑ । परि॑ऽसिक्ता । मधू॑नि ।
यु॒क्त्वा । वृष॑ऽभ्याम् । वृ॒ष॒भ॒ । क्षि॒ती॒नाम् । हरि॑ऽभ्याम् । या॒हि॒ । प्र॒ऽवता॑ । उप॑ । म॒द्रिक् ॥

सायणभाष्यम्

हेइन्द्र त्वंरथमातिष्ठ आश्रय यज्ञगमनार्थं कीदृशंरथं वृषणंवर्षकंकामानां किमर्थमिति चेदुच्यते- तेत्वदर्थंवृषावर्षकः सोमः सुतोभिषुतः तथामधूनिमधुराणिघृतक्षीरादीनिपरिषिक्तापरितः सिक्ता- निसंपादितानि यद्वा मधूनिमधुराः सोमरसाः चमसेषुपूरिताः आगमनप्रकारउच्यते हेवृषभवर्षकेन्द्र वृषभ्यांवर्षकाभ्यांहरिभ्यांयुक्त्वारथंयोजयित्वाक्षितीनांकर्मसुनिवसतांयजमानानामस्माकमनुग्रहाय क्षितीनांवृषभेतिवायोज्यं प्रवतावेगवतारथेनमद्रिक् दभिमुखमञ्चन् मदाभिमुख्येनोपयाहि ॥ ३ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०