मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७७, ऋक् ५

संहिता

ओ सुष्टु॑त इन्द्र याह्य॒र्वाङुप॒ ब्रह्मा॑णि मा॒न्यस्य॑ का॒रोः ।
वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

पदपाठः

ओ इति॑ । सुऽस्तु॑तः । इ॒न्द्र॒ । या॒हि॒ । अ॒र्वाङ् । उप॑ । ब्रह्मा॑णि । मा॒न्यस्य॑ । का॒रोः ।
वि॒द्याम॑ । वस्तोः॑ । अव॑सा । गृ॒णन्तः॑ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

सायणभाष्यम्

हेइन्द्र सुष्टुतः अस्माभिः सम्यक् स्तुतःसन् अर्वाङ् अस्मदभिमुखमायाहि आगच्छैव माविलंबय किमुद्दिश्यमान्यस्यमाननीयस्यकारोः स्तोतुः होतुः कर्तुर्यजमानस्यवाब्रह्माणिमन्त्रान् उपउपलक्ष्य- गृणन्तः स्तुवन्तः अभिमतंशब्दयन्तोवावयं अवसात्वद्रक्षणेनरक्षिताः सन्तोवस्तोर्वस्तुंसुखेनसंस्थातुं अहनिवा सर्वेष्वहस्सुअन्नादिकंविद्याम लभेमहि विद्यामेत्यादिव्याख्यातम् ॥ ५ ॥

यद्धस्येतिपञ्चर्चंचतुर्दशंसूक्तं आगस्त्यमैन्द्रंत्रैष्टुभं यद्धस्येत्यनुक्रमणिका विशेषविनियोगः पूर्ववत् ।

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०