मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७८, ऋक् १

संहिता

यद्ध॒ स्या त॑ इन्द्र श्रु॒ष्टिरस्ति॒ यया॑ ब॒भूथ॑ जरि॒तृभ्य॑ ऊ॒ती ।
मा न॒ः कामं॑ म॒हय॑न्त॒मा ध॒ग्विश्वा॑ ते अश्यां॒ पर्याप॑ आ॒योः ॥

पदपाठः

यत् । ह॒ । स्या । ते॒ । इ॒न्द्र॒ । श्रु॒ष्टिः । अस्ति॑ । यया॑ । ब॒भूथ॑ । ज॒रि॒तृऽभ्यः॑ । ऊ॒ती ।
मा । नः॒ । काम॑म् । म॒हय॑न्तम् । आ । ध॒क् । विश्वा॑ । ते॒ । अ॒श्या॒म् । परि॑ । आपः॑ । आ॒योः ॥

सायणभाष्यम्

हेइन्द्र यत् या स्या सा हप्रसिद्धाश्रुष्टिः सर्वत्रश्रूयमाणासमृद्धिस्तेतवास्ति यया जरितृभ्यः स्तोतृ- भ्यः ऊतीऊत्यैरक्षणायबभूथसमर्थोभवसि नोस्माकंमहयन्तं अस्मान्महतः कुर्वाणंकामं अभीष्टं मा- आधक् माधाक्षीः तेतवसंबन्धीनिविश्वासर्वाणिभोगजातानि आपः आप्तव्यानि यद्वा विश्वासर्वाआपः आप्ताश्रुष्टीः समृद्धीः आयोर्मनुष्यस्योचिताः पर्यश्यां परितोव्याप्नुयाम् ॥ १ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१