मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७८, ऋक् २

संहिता

न घा॒ राजेन्द्र॒ आ द॑भन्नो॒ या नु स्वसा॑रा कृ॒णव॑न्त॒ योनौ॑ ।
आप॑श्चिदस्मै सु॒तुका॑ अवेष॒न्गम॑न्न॒ इन्द्र॑ः स॒ख्या वय॑श्च ॥

पदपाठः

न । घ॒ । राजा॑ । इन्द्रः॑ । आ । द॒भ॒त् । नः॒ । या । नु । स्वसा॑रा । कृ॒णव॑न्त । योनौ॑ ।
आपः॑ । चि॒त् । अ॒स्मै॒ । सु॒ऽतुकाः॑ । अ॒वे॒ष॒न् । गम॑त् । नः॒ । इन्द्रः॑ । स॒ख्या । वयः॑ । च॒ ॥

सायणभाष्यम्

अयंराजा राजमानईश्वरोवा इन्द्रः नोस्मदीयानिकर्माणिनादभत् सर्वतोनहिंस्यात् घपूरणः का- नीतिउच्यते या यानिकर्माणि वृष्ट्यादिरूपाणि स्वसारा परस्परंस्वसृभूतेस्वयंसरणभूते अहो शत्रे नुपूरणः योनौस्वकीयेस्थानेकृणवन्त द्विवचनस्थानेबहुवचनं कुरुतः कृविहिंसाकरणयोश्च धिन्विकृ- ण्व्योरचेत्युप्रत्ययः बहुलग्रहणाच्छप् तानीन्द्रोप्यनुजानात्वित्यर्थः स्वसृभूतावध्वर्युयजमानौवा कुरु- तः यद्वा स्वसारोङ्गुलयोयोनौफलोत्पादनस्थानेयज्ञे यानिकृतवत्यस्तानीतियोन्यं किञ्च अस्माइन्द्रा- यसुतुकाः शोभनबलहेतून्यापः अप् कार्याणिहवींषि अवेषन् व्याप्नुवन्तिनोस्मभ्यमिन्द्रः सख्यासख्या- निवयश्चप्रभूतमन्नंचग्मत् गमयतु ॥ २ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१