मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७८, ऋक् ३

संहिता

जेता॒ नृभि॒रिन्द्र॑ः पृ॒त्सु शूर॒ः श्रोता॒ हवं॒ नाध॑मानस्य का॒रोः ।
प्रभ॑र्ता॒ रथं॑ दा॒शुष॑ उपा॒क उद्य॑न्ता॒ गिरो॒ यदि॑ च॒ त्मना॒ भूत् ॥

पदपाठः

जेता॑ । नृऽभिः॑ । इन्द्रः॑ । पृ॒त्ऽसु । शूरः॑ । श्रोता॑ । हव॑म् । नाध॑मानस्य । का॒रोः ।
प्रऽभ॑र्ता । रथ॑म् । दा॒शुषः॑ । उ॒पा॒के । उत्ऽय॑न्ता । गिरः॑ । यदि॑ । च॒ । त्मना॑ । भूत् ॥

सायणभाष्यम्

अयमिन्द्रः शूरोविक्रान्तःसन् नृभिः सङ्ग्रामनेतृभिर्मरुद्भिःसहितःसन् पृत्सुसङ्ग्रामेषुजेता जय- शीलः श्त्रूणां तथा नाधमानस्यत्वदनुग्रहंयाचमानस्यकारोः स्तोतुः हवमाह्वानंश्रोताभवति किञ्च यदिच यदाच त्मनाआत्मना अन्यप्रेरितः एवंगिरः स्तुतिरूपाणिवचांसिस्तोतॄन्वा उद्यन्ता उच्छ्रयि- ताभूत् भवेत् तदादाशुषोहविर्दत्तवतोयजमानस्य उपाके समीपनामैतत् समीपएवयागदेशेरथंप्रभर्ता सम्यक् प्रभरन् भवति जेतेत्यादिषुतृन्नन्तेषु नलोकाव्ययेत्यादिनाकर्मणिषष्ठीप्रतिषेधः यदा स्तुतिं- श्रोतुमिच्छति तदास्वयमेवशीघ्रंरथंधावयित्वायागंप्राप्नोतीत्यर्थः ॥ ३ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१