मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७८, ऋक् ४

संहिता

ए॒वा नृभि॒रिन्द्र॑ः सुश्रव॒स्या प्र॑खा॒दः पृ॒क्षो अ॒भि मि॒त्रिणो॑ भूत् ।
स॒म॒र्य इ॒षः स्त॑वते॒ विवा॑चि सत्राक॒रो यज॑मानस्य॒ शंसः॑ ॥

पदपाठः

ए॒व । नृऽभिः॑ । इन्द्रः॑ । सु॒ऽश्र॒व॒स्या । प्र॒ऽखा॒दः । पृ॒क्षः । अ॒भि । मि॒त्रिणः॑ । भू॒त् ।
स॒ऽम॒र्ये । इ॒षः । स्त॒व॒ते॒ । विऽवा॑चि । स॒त्रा॒ऽक॒रः । यज॑मानस्य । शंसः॑ ॥

सायणभाष्यम्

अयमिन्द्रोनृभिः कर्मनिर्वाहकैर्यजमानैर्दत्तपृक्षोहविर्लक्षणमन्नं सुश्रवस्याशोभनान्नेच्छयाअन्नेच्छु- र्वाप्रखादः प्रकर्षेणखादितएव एवमेवपूर्वंयथातथैवमित्रिणः सहायवतोपियजमानस्यशत्रूनभिभूत्- अभिभवति यद्वा नृभिर्वृष्टिनेतृभिर्मरुद्भिःसहितोयमिन्द्रःसुश्रवस्याप्रखादःसन्नेवमेवमित्रिणऋत्विग्रू- पमित्रवतोयजमानस्यार्थे तदभिमताय अभिभूत् अभीत्यनर्थकःभवति आभिमुख्येनवाभवति तस्य- हविःस्वीकृत्यतदभिमतायभवतीत्यर्थः अथ तथाभूतःसन् विवाचि विविधपरस्पराह्वानध्वनियुक्ते- समर्थेसंग्रामे विविधस्तोत्रशस्त्रध्वनियुक्तेसमर्थे मर्त्ययुक्तेयज्ञे वा तन्निमित्तंयजमानस्यशंसःशंसकःसन् सत्राकरःफलानांसत्यकार्ययमिन्द्रइषोहविर्लक्षणमन्नंस्तवते स्तौति ॥ ४ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१