मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७८, ऋक् ५

संहिता

त्वया॑ व॒यं म॑घवन्निन्द्र॒ शत्रू॑न॒भि ष्या॑म मह॒तो मन्य॑मानान् ।
त्वं त्रा॒ता त्वमु॑ नो वृ॒धे भू॑र्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

पदपाठः

त्वया॑ । व॒यम् । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । शत्रू॑न् । अ॒भि । स्या॒म॒ । म॒ह॒तः । मन्य॑मानान् ।
त्वम् । त्रा॒ता । त्वम् । ऊं॒ इति॑ । नः॒ । वृ॒धे । भूः॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

सायणभाष्यम्

हेमघवन् धनवन्निन्द्र त्वयासहायेनवयं यजमानाः महतोमन्यमानान् अतिबलानवध्यान् मन्य- मानान् शत्रूनाभिष्याम अभिभवितारोभवेम हेइन्द्र त्वंत्रातात्वमेवास्माकंरक्षकःअतस्त्वमुत्वमेवनो- स्माकंवृधे धनादिवर्धनायभूर्भव विद्यामेत्यादिगतम् ॥ ५ ॥

पूर्वीरहमितिषळृचंपञ्चदशंसूक्तंत्रैष्टुभं उपान्त्याबृहती अत्रत्रयाणांद्वृचानांलोपामुद्रागस्त्यतच्छि- ष्यैर्दृष्टत्वात्तएवर्षयः सूक्तप्रतिपाद्योर्थोरतिर्देवता अत्रानुक्रमणिका—पूर्वीः षट् जायापत्योर्लोपामुद्रा- याअगस्त्यस्यचद्वृ चाभ्यांरत्यर्थंसंवादंश्रुत्वान्तेवासीब्रह्मचार्यंत्येबृहत्यादीअपश्यदिति विशेषविनि- योगोलैङ्गिकः ।

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१