मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७९, ऋक् ३

संहिता

न मृषा॑ श्रा॒न्तं यदव॑न्ति दे॒वा विश्वा॒ इत्स्पृधो॑ अ॒भ्य॑श्नवाव ।
जया॒वेदत्र॑ श॒तनी॑थमा॒जिं यत्स॒म्यञ्चा॑ मिथु॒नाव॒भ्यजा॑व ॥

पदपाठः

न । मृषा॑ । श्रा॒न्तम् । यत् । अव॑न्ति । दे॒वाः । विश्वाः॑ । इत् । स्पृधः॑ । अ॒भि । अ॒श्न॒वा॒व॒ ।
जया॑व । इत् । अत्र॑ । श॒तऽनी॑थम् । आ॒जिम् । यत् । स॒म्यञ्चा॑ । मि॒थु॒नौ । अ॒भि । अजा॑व ॥

सायणभाष्यम्

अगस्त्यस्तामाह भोःपत्नि त्वया मयाचनमृषाश्रान्तं व्यर्थंनैवखिन्नमावाभ्यां यत् यस्मात् देवा- अवन्तिरक्षन्ति तपोभिःप्रीताः आवांविश्वाइत् सर्वाअपिस्पृधःस्पर्धमानाःसेनाःअभ्यश्नवाव् अभितो- व्याप्नुवाव अत्रास्मिन्संसारे शतनीथं अपरिमितभोगप्राप्तिसाधनमाजिंप्राप्तिंपरस्परं जयाव जयलक्ष- णं सुरतसङ्ग्रामं वा जयाव यत् यस्मात् सम्यञ्चासम्यक्परस्परं गच्छन्तौपूजयन्तौवामिथुना मिथु- नौ स्त्रीपुरुषरूपौ सन्तौ अभ्यजाव त्वं चाहमपिपरस्परमभिजयावेत्येवंतयो क्तंसंभोगं संभावया- मास ॥ ३ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२