मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७९, ऋक् ४

संहिता

न॒दस्य॑ मा रुध॒तः काम॒ आग॑न्नि॒त आजा॑तो अ॒मुत॒ः कुत॑श्चित् ।
लोपा॑मुद्रा॒ वृष॑णं॒ नी रि॑णाति॒ धीर॒मधी॑रा धयति श्व॒सन्त॑म् ॥

पदपाठः

न॒दस्य॑ । मा॒ । रु॒ध॒तः । कामः॑ । आ । अ॒ग॒न् । इ॒तः । आऽजा॑तः । अ॒मुतः॑ । कुतः॑ । चि॒त् ।
लोपा॑मुद्रा । वृष॑णम् । निः । रि॒णा॒ति॒ । धीर॑म् । अधी॑रा । ध॒य॒ति॒ । श्व॒सन्त॑म् ॥

सायणभाष्यम्

हेजाये नदस्यनदनस्य जपशब्दयितुःजपाध्ययनकर्तुः रुधतोरेतोनिरोद्धुः ब्रह्मचर्यमास्थितस्य उभेकर्मणिषष्ठ्यौ उक्तलक्षणं मामांकामआगन् आगमत् नदस्यमारुधतः कामआगमदितिनिरुक्तम् । कस्यहेतोरिति उच्यते इतःत्वत्सङ्गमनिमित्तात् तथा अमुतोवसन्तादिकालात् कुतश्चित्कारणादा- जातः सर्वतउत्पन्नः यद्वा इतएतल्लोकजनितादमुतोलोकान्तरजनिताद्वा कुतश्चिन्निमित्तात्कामात्क- थमिति उच्यते इयंलोपामुद्राबृषणंरेतसःप्रवर्तकंमां नीरिणातिनितरांगच्छति किञ्चधीरंधीमन्तं उ- च्यते इयंलोपामुद्रावृषणंरेतसःप्रवर्तकंमां नीरिणातिनितरांगच्छति किञ्चधीरंधीमन्तं नियमादवि- चालिनं श्वसन्तंमहाप्राण महाबलं अधीराकातरैषायोषित् धयतिउपभुङ्क्ताम् ॥ ४ ॥ अथानयोर्दम्पत्योः संभोगसँल्लापंश्रुत्वातत्प्रायश्चित्तंचिकीर्षुरुत्तराभ्यामाह—अनयोर्विनियोगः शौनकेनोक्तः—इमंनुसोममित्येतेद्वेऋचौप्रयतोजपन् । सर्वान्कामानवाप्नोतिपापेभ्यश्चप्रमुच्यतइति ।

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२