मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८०, ऋक् १

संहिता

यु॒वो रजां॑सि सु॒यमा॑सो॒ अश्वा॒ रथो॒ यद्वां॒ पर्यर्णां॑सि॒ दीय॑त् ।
हि॒र॒ण्यया॑ वां प॒वयः॑ प्रुषाय॒न्मध्व॒ः पिब॑न्ता उ॒षसः॑ सचेथे ॥

पदपाठः

यु॒वोः । रजां॑सि । सु॒ऽयमा॑सः । अश्वाः॑ । रथः॑ । यत् । वा॒म् । परि॑ । अर्णां॑सि । दीय॑त् ।
हि॒र॒ण्ययाः॑ । वा॒म् । प॒वयः॑ । प्रु॒षा॒य॒न् । मध्वः॑ । पिब॑न्तौ । उ॒षसः॑ । स॒चे॒थे॒ इति॑ ॥

सायणभाष्यम्

हेअश्विनौ युवोः युवयोरश्वाः रथवोढारोरजांसिरंजकान् लोकान् सुयमासः शोभननियमाः लोक- त्रयसञ्चारिणइत्यर्थः कदेत्याह यत् यत् यदावांरथः अर्णांसि अरणीयानभिमतदेशान् परिदीयत् परि- गच्छेत् परितोगच्छतिवा तदेत्यर्थः दीयतिर्गतिकर्मा तकतिदीयतीतितत्कर्मसुपाठात् किञ्च त्वदागम- नकालेयुवांयुवयोः पवयः वज्रारथनेमयोवाहिरण्याः हिरण्मयाः प्रुषायन् पुष्णन्तिअभिमतं यद्वाहिर- ण्मयानिपवयोमधुपात्राणिवांयुवाभ्यामर्थाययस्मादेवंतस्मात् युवांमध्वोमधुनोमधुसदृशस्यसोमरस- स्य कर्मणिषष्ठी सोमरसंपिबन्तावास्वादयन्तौउषसः उषः सबन्धिनिकाले सचेथे यज्ञंसङ्गच्छेथे अ- त्रक्रमोन्विवक्षितः उषः कालएवागत्यमधुरंसोमरसंपिबतमित्यर्थः ॥ १ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३