मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८०, ऋक् २

संहिता

यु॒वमत्य॒स्याव॑ नक्षथो॒ यद्विप॑त्मनो॒ नर्य॑स्य॒ प्रय॑ज्योः ।
स्वसा॒ यद्वां॑ विश्वगूर्ती॒ भरा॑ति॒ वाजा॒येट्टे॑ मधुपावि॒षे च॑ ॥

पदपाठः

यु॒वम् । अत्य॑स्य । अव॑ । न॒क्ष॒थः॒ । यत् । विऽप॑त्मनः । नर्य॑स्य । प्रऽय॑ज्योः ।
स्वसा॑ । यत् । वा॒म् । वि॒श्व॒गू॒र्ती॒ इति॑ विश्वऽगूर्ती । भरा॑ति । वाजा॑य । ईट्टे॑ । म॒धु॒ऽपौ॒ । इ॒षे । च॒ ॥

सायणभाष्यम्

हेअश्विनौ युवंयुवांयत् यदा अत्यस्यातनशीलस्यसततसञ्चारिणोविपत्मनः विविधगमनस्यवि- चित्रगमनस्यवानर्थस्यमनुष्याणांहितस्य प्रयज्योःप्रकर्षेणपूज्यस्यएतानिकर्मणिषष्ठ्यन्तानि उक्त- रूपंरथं अव अवस्तात् तदुद्यात्पूर्वंनक्षथोव्याप्नुथोदेवयजनंगन्तुं किञ्च यत् यदाहेविश्वगूर्तीसर्वस्तुत्यौ- सर्वदोद्गूर्णौवावांयुवयोः स्वसास्वसृस्थानीयाः स्वयंसारिणीवोषाः भराति पोषते त्वदागमनायप्र- भातंकरोति यदाहेमधुपौ मधुरस्यसोमरसस्यपातारौ युवांयजमानोवाजाय बलायगमनायवा इषे- प्रभूतान्नायईटेस्तौति तदारथंप्राप्नुथइत्यर्थः ॥ २ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३