मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८०, ऋक् ३

संहिता

यु॒वं पय॑ उ॒स्रिया॑यामधत्तं प॒क्वमा॒माया॒मव॒ पूर्व्यं॒ गोः ।
अ॒न्तर्यद्व॒निनो॑ वामृतप्सू ह्वा॒रो न शुचि॒र्यज॑ते ह॒विष्मा॑न् ॥

पदपाठः

यु॒वम् । पयः॑ । उ॒स्रिया॑याम् । अ॒ध॒त्त॒म् । प॒क्वम् । आ॒माया॑म् । अव॑ । पूर्व्य॑म् । गोः ।
अ॒न्तः । यत् । व॒निनः॑ । वा॒म् । ऋ॒त॒प्सू॒ इत्यृ॑तऽप्सू । ह्वा॒रः । न । शुचिः॑ । यज॑ते । ह॒विष्मा॑न् ॥

सायणभाष्यम्

हेअश्विनौ युवंयुवांउस्त्रियायां गोनामैतत् भोगोत्स्राविण्यांगवि पयः अधत्तं अधारयतं स्थापित- वन्तौ तथाआमायां अपक्वायंपक्वंपरिपक्वंभोगयोग्यंगोसंबंधिदुग्धंपूर्व्यंपूर्वभवंतत्रैवोत्सन्नं अव अवस्ता- दाधारयतं गविक्षीरमुत्पाद्यपुनर्भोगायपृथक् कृतवन्तावित्यर्थः यत् यस्मात् हेऋतप्सू सत्यस्वरूपौ- यज्ञियहविर्भक्षयितारौवा हेअश्विनौ वांवनिनः उदकवतः उदकोपलक्षितहविष्मतोयज्ञस्य अन्तर्मध्ये- हविष्मान् प्रदेयहविषातद्वान् शुचिः शुद्धोयजमानोयजतेपूजयतियुवां तस्मादेवमकुरुतं यद्वा यदैवं- यजमानःकरोतितदेत्यर्थः तत्रदृष्टान्तः—वनिनोवनसंबन्धिवृक्षसमूहस्यान्तर्मध्येह्वारोन चोरइव सयथाजागरूकोवर्तते तथायजमानोपीत्यर्थः ॥ ३ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३