मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८०, ऋक् ९

संहिता

प्र यद्वहे॑थे महि॒ना रथ॑स्य॒ प्र स्य॑न्द्रा याथो॒ मनु॑षो॒ न होता॑ ।
ध॒त्तं सू॒रिभ्य॑ उ॒त वा॒ स्वश्व्यं॒ नास॑त्या रयि॒षाचः॑ स्याम ॥

पदपाठः

प्र । यत् । वहे॑थे॒ इति॑ । म॒हि॒ना । रथ॑स्य । प्र । स्य॒न्द्रा॒ । या॒थः॒ । मनु॑षः । न । होता॑ ।
ध॒त्तम् । सू॒रिऽभ्यः॑ । उ॒त । वा॒ । सु॒ऽअश्व्य॑म् । नास॑त्या । र॒यि॒ऽसाचः॑ । स्या॒म॒ ॥

सायणभाष्यम्

हेअश्विनौ युवांरथस्यगमनसाधनस्यमहिनामहत्त्वेन यत् यस्मात्प्रवहेथे धारयेथेयज्ञं यद्वा रथस्य- स्वर्गगमनसाधनस्ययागस्यधुरंवहतः तथाहेस्पन्द्रा स्पन्दनशीलौयुवां याथोगच्छथः स्वस्थानंयज्ञारं- भेआगच्छथः यज्ञसमाप्तौपुनर्गच्छथश्च तत्रदृष्टान्तः—मनुषोहोतान मनुष्यस्ययजमानस्य होतायथा- यज्ञप्रारंभे आगच्छति कर्मण्यपवृत्ते पुनर्निर्गच्छति तद्वत् आगमनसमये सूरिभ्यः स्तोतृभ्यः धत्तं धार- यतं फलं उतवा स्वश्व्यंशोभनाश्वसमूहंधत्तं नासत्या सत्सुभवौ सत्यौ नसत्यौअसत्यौ नअसत्यौनास- त्यौ हेतादृशौ त्वदनुग्रहाद्रयिसाचोधनसमवायिनः स्यामभवेम ॥ ९ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४