मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८१, ऋक् १

संहिता

कदु॒ प्रेष्टा॑वि॒षां र॑यी॒णाम॑ध्व॒र्यन्ता॒ यदु॑न्निनी॒थो अ॒पाम् ।
अ॒यं वां॑ य॒ज्ञो अ॑कृत॒ प्रश॑स्तिं॒ वसु॑धिती॒ अवि॑तारा जनानाम् ॥

पदपाठः

कत् । ऊं॒ इति॑ । प्रेष्ठौ॑ । इ॒षाम् । र॒यी॒णाम् । अ॒ध्व॒र्यन्ता॑ । यत् । उ॒त्ऽनि॒नी॒थः । अ॒पाम् ।
अ॒यम् । वा॒म् । य॒ज्ञः । अ॒कृ॒त॒ । प्रऽश॑स्तिम् । वसु॑धिती॒ इति॒ वसु॑ऽधिती । अवि॑तारा । ज॒ना॒ना॒म् ॥

सायणभाष्यम्

हेअश्विनौ प्रेष्ठौप्रियतमौवांयुवांकदुकदा इषां इष्यन्तेइतिइषः तेषांइप्यमाणानामन्नानांरयीणां कर्मणिषष्ठ्यौ अन्ननिधनानिचउन्निनीथः ऊर्ध्वंप्रापयथः अध्वर्यंताअध्वरंपारयितुमिच्छन्तौयुवां अपांवृष्ट्युदकानांवृष्ट्युदकानिचोन्निनीथः उत्कृष्टं अधःप्रापयथइतियत् तत् कदाकस्मादेवमुच्यत- इतिउच्यते अयंयज्ञोस्माभिरनुष्ठीयमानोवांयुवयोरेवप्रशस्तिंप्रशंसांस्तुतिमकृतकरोति यज्ञेशंसनी- यानिशस्त्राणियुवामेवप्रशंसन्तीत्यर्थः यस्मादेवंतस्मात् हेवसुधिती वसुनोधनस्यधातारौ वस्तव्य- कर्माणौ तथा हेजनानामवितारावृक्तलक्षणौयुवांकदान्नानांधनानांचदातारौभवथइति ॥ १ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५