मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८२, ऋक् २

संहिता

इन्द्र॑तमा॒ हि धिष्ण्या॑ म॒रुत्त॑मा द॒स्रा दंसि॑ष्ठा र॒थ्या॑ र॒थीत॑मा ।
पू॒र्णं रथं॑ वहेथे॒ मध्व॒ आचि॑तं॒ तेन॑ दा॒श्वांस॒मुप॑ याथो अश्विना ॥

पदपाठः

इन्द्र॑ऽतमा । हि । धिष्ण्या॑ । म॒रुत्ऽत॑मा । द॒स्रा । दंसि॑ष्ठा । र॒थ्या॑ । र॒थिऽत॑मा ।
पू॒र्णम् । रथ॑म् । व॒हे॒थे॒ इति॑ । मध्वः॑ । आऽचि॑तम् । तेन॑ । दा॒श्वांस॑म् । उप॑ । या॒थः॒ । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हेअश्विनौ युवामिन्द्रतमाहि ईश्वरतमौखलु एवंप्रतिविशेषणंहिःसंबंद्भ्यः तथा धिष्ण्या स्तुत्यर्हौ मरुत्तमा मरुद्वद्वेगगामिनौमितरागिणौमितराविणौवा दस्रा उपक्षपयितारौशत्रूणां दंसिष्ठा अति- शयकर्माणौ रथ्यारथार्हौरथवन्तौ यथारथिनोनेतारः तेषांश्रेष्ठौरथीरध्वराणामितिने तृपरतयाव्या- ख्यातत्वात् ईदृशौयुवांमध्वोमधुसदृशस्योदकस्यामृतस्यवापूर्णंपूरितं आचितंसर्वतः सन्नद्धंरथं वहेथे नयथः तेनोक्तगुणविशिष्टेनरथेन हेअश्विना अश्विनौउक्तगुणविशिष्टौ सन्तौ दाश्वांसंउपयायः यज्ञ- मभिप्राप्नुथः ॥ २ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७