मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८२, ऋक् ३

संहिता

किमत्र॑ दस्रा कृणुथ॒ः किमा॑साथे॒ जनो॒ यः कश्चि॒दह॑विर्मही॒यते॑ ।
अति॑ क्रमिष्टं जु॒रतं॑ प॒णेरसुं॒ ज्योति॒र्विप्रा॑य कृणुतं वच॒स्यवे॑ ॥

पदपाठः

किम् । अत्र॑ । द॒स्रा॒ । कृ॒णु॒थः॒ । किम् । आ॒सा॒थे॒ इति॑ । जनः॑ । यः । कः । चि॒त् । अह॑विः । म॒ही॒यते॑ ।
अति॑ । क्र॒मि॒ष्ट॒म् । जु॒रत॑म् । प॒णेः । असु॑म् । ज्योतिः॑ । विप्रा॑य । कृ॒णु॒त॒म् । व॒च॒स्यवे॑ ॥

सायणभाष्यम्

हेदस्रा उपक्षपयितारौयुवां अत्रास्मिन् मनुष्येकिंक्रुणुथः कुरुथः हविषोभावादितिभावः तत्रैवकि- मासाथे किंतिष्ठथः अत्रेत्युक्तंकुत्रेत्याह—यःकश्चिज्जनोजन्मवान् अहविः यज्ञार्थहवीरहितोमहीयते- पूज्यतेस्वयं नयुष्मान्पूजयति तंजनमतिक्रमिष्टं पराभूयतिष्ठतं नकेवलमतिक्रममात्रं किन्तु पणेर्वणि- ग्भूतस्यलुब्धकस्यायष्टुः तस्यासुंप्राणंजुरतं अहिंसिष्टं अनीनशतं विप्रायमेधाविनेवचस्यवे वचसःस्तो- त्ररूपस्ययुवाभ्यामिच्छतेमह्यंज्योतिः कृणुतं युष्मद्यजनविषयज्ञानंकुरुतम् ॥ ३ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७