मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८२, ऋक् ४

संहिता

ज॒म्भय॑तम॒भितो॒ राय॑त॒ः शुनो॑ ह॒तं मृधो॑ वि॒दथु॒स्तान्य॑श्विना ।
वाचं॑वाचं जरि॒तू र॒त्निनीं॑ कृतमु॒भा शंसं॑ नासत्यावतं॒ मम॑ ॥

पदपाठः

ज॒म्भय॑तम् । अ॒भितः॑ । राय॑तः । शुनः॑ । ह॒तम् । मृधः॑ । वि॒दथुः॑ । तानि॑ । अ॒श्वि॒ना॒ ।
वाच॑म्ऽवाचम् । ज॒रि॒तुः । र॒त्निनी॑म् । कृ॒त॒म् । उ॒भा । शंस॑म् । ना॒स॒त्या॒ । अ॒व॒त॒म् । मम॑ ॥

सायणभाष्यम्

हेअश्विनौ रायतःनिन्दतः शब्दयतोस्मान् हन्तुं आगच्छतोवा शुनः श्वसदृशानभितोजंभयतंना- शयतं तथामृधस्तेषांसङ्ग्रामान् सङ्ग्रामंकुर्वतोवा हतं मारयतं तानिहननोपायान् विदथुः जानीथः किञ्च जरितुर्युष्मान् स्तोतुर्वाचंवाचंतांतांस्तुतिलक्षणांवाचंरत्निनीं कृतंसर्वामपिस्तुतिंरमणीयफल- वतीं कुरुतं हेनासत्या सत्यभूतौ युवामुभाउभौ मममदीयांशंसंस्तुतिं अवतं रक्षतम् ॥ ४ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७