मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८२, ऋक् ७

संहिता

कः स्वि॑द्वृ॒क्षो निष्ठि॑तो॒ मध्ये॒ अर्ण॑सो॒ यं तौ॒ग्र्यो ना॑धि॒तः प॒र्यष॑स्वजत् ।
प॒र्णा मृ॒गस्य॑ प॒तरो॑रिवा॒रभ॒ उद॑श्विना ऊहथु॒ः श्रोम॑ताय॒ कम् ॥

पदपाठः

कः । स्वि॒त् । वृ॒क्षः । निःऽस्थि॑तः । मध्ये॑ । अर्ण॑सः । यम् । तौ॒ग्र्यः । ना॒धि॒तः । प॒रि॒ऽअस॑स्वजत् ।
प॒र्णा । मृ॒गस्य॑ । प॒तरोः॑ऽइव । आ॒ऽरभे॑ । उत् । अ॒श्वि॒ना॒ । ऊ॒ह॒थुः॒ । श्रोम॑ताय । कम् ॥

सायणभाष्यम्

कःस्वित् कश्चिदनुग्राहकोवृक्षः वृक्षविकारोरथः विकारेप्रकृतिशब्दः यद्वा संस्तषाभिप्रायमेतत् स्तोत्राख्योवृक्षइत्यर्थः कीदृशोरथः निष्ठितः निश्चलंवर्तमानः कुत्रेतिउच्यते अर्णसः उदकस्यमध्येयं- वृक्षंतौग्र्यः तुग्रपुत्रोभुज्युर्नाधितोयाचमानः पर्यषस्वजत् परिष्व क्तमकरोत् आलम्बने दृष्टान्तः— पतरोः पतनशीलस्यमृगस्यमार्जयितुः शोधयितुर्हिंसकादेरारभे आलंबनायपर्णानीव तानियथा आलं- बनाय्प्रभवन्ति तद्वत् हेअश्विनौ श्रोमतायकीर्तिमत्त्वायौदूहथुः ऊर्ध्वं प्रापयथः स्तुतिपक्षे स्तोत्राख्यं- वृक्षमाश्रितवन्तंतमूहथुरित्यर्थः ॥ ७ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८