मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८३, ऋक् १

संहिता

तं यु॑ञ्जाथां॒ मन॑सो॒ यो जवी॑यान्त्रिवन्धु॒रो वृ॑षणा॒ यस्त्रि॑च॒क्रः ।
येनो॑पया॒थः सु॒कृतो॑ दुरो॒णं त्रि॒धातु॑ना पतथो॒ विर्न प॒र्णैः ॥

पदपाठः

तम् । यु॒ञ्जा॒था॒म् । मन॑सः । यः । जवी॑यान् । त्रि॒ऽव॒न्धु॒रः । वृ॒ष॒णा॒ । यः । त्रि॒ऽच॒क्रः ।
येन॑ । उ॒प॒ऽया॒थः । सु॒ऽकृतः॑ । दु॒रो॒णम् । त्रि॒ऽधातु॑ना । प॒त॒थः॒ । विः । न । प॒र्णैः ॥

सायणभाष्यम्

हेवृषणा वर्षकौकामानांयुवांतंवक्ष्यमाणगुणविशिष्टंरथंयुञ्चाथांयोजयतं तमित्युक्तंकमित्याह यो- रथः त्रिवन्धुरः त्रिप्रकारसारथिस्थानः वन्धुरंरथिनःस्थानमित्याहुः आयाह्यर्वाङुपवन्धुरेष्ठाइत्यादि- मन्त्रान्तरात् । यश्च त्रिचक्रः चक्रत्रितयोपेतः पुनः सएवविशेष्यते येनरथेनोपयाथःउपागच्छथः किं सुकृतः शोभनसोमाख्याकर्मवतोयजमानस्यदुरोणं गृहनामैतत् यागगृहंयेनेत्युक्तंकेनेत्याह त्रिधातुना- त्रिप्रकारस्थानोपेतेनसुवर्णरजतताम्नाधातुत्रयोपेतेनवारथेन गमनेदृष्टान्तः—विर्नपर्णैः पक्षीपक्षैर्यथा- शीघ्रमप्रयत्नेनगच्छति तद्वदुक्तलक्षणेनरथेनपतथः गच्छथः ॥ १ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९