मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८३, ऋक् ३

संहिता

आ ति॑ष्ठतं सु॒वृतं॒ यो रथो॑ वा॒मनु॑ व्र॒तानि॒ वर्त॑ते ह॒विष्मा॑न् ।
येन॑ नरा नासत्येष॒यध्यै॑ व॒र्तिर्या॒थस्तन॑याय॒ त्मने॑ च ॥

पदपाठः

आ । ति॒ष्ठ॒त॒म् । सु॒ऽवृत॑म् । यः । रथः॑ । वा॒म् । अनु॑ । व्र॒तानि॑ । वर्त॑ते । ह॒विष्मा॑न् ।
येन॑ । न॒रा॒ । ना॒स॒त्या॒ । इ॒ष॒यध्यै॑ । व॒र्तिः । या॒थः । तन॑याय । त्मने॑ । च॒ ॥

सायणभाष्यम्

हेअश्विनौ वांयुवांसुवृतं शोभनवर्तनंरथं आतिष्ठतं आश्रयतं योरथोहविष्मान् षष्ठ्यथे प्रथमा ह- विष्मन्तोयजमानस्यव्रतानिकर्माण्यनुवर्तते यद्वा यजमानायदत्तहविषातद्वान् येनचरथेनहेनरानेता- रौहेनासत्या असत्यरहितौ युवामिषयध्यै यज्ञंप्राप्तुमिच्छतमितिशेषः तेनरथेनवर्तिः गृहनामैतत् यजमानस्ययज्ञगृहं तनयाय पुत्रलाभायत्मनेआत्महितायचयाथः ॥ ३ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९