मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८३, ऋक् ५

संहिता

यु॒वां गोत॑मः पुरुमी॒ळ्हो अत्रि॒र्दस्रा॒ हव॒तेऽव॑से ह॒विष्मा॑न् ।
दिशं॒ न दि॒ष्टामृ॑जू॒येव॒ यन्ता मे॒ हवं॑ नास॒त्योप॑ यातम् ॥

पदपाठः

यु॒वम् । गोत॑मः । पु॒रु॒ऽमी॒ळ्हः । अत्रिः॑ । दस्रा॑ । हव॒ते । अव॑से । ह॒विष्मा॑न् ।
दिश॑म् । न । दि॒ष्टाम् । ऋ॒जु॒याऽइ॑व । यन्ता॑ । आ । मे॒ । हव॑म् । ना॒स॒त्या॒ । उप॑ । या॒त॒म् ॥

सायणभाष्यम्

हेदस्रा दस्रौ अश्विनौयुवांगोतमश्चपुरुमीह्ळश्चअन्त्रिश्चमहर्षयश्चएतेष्वेकैकोहविष्मान् सन् अव- सेयुष्मद्रक्षणायवाहवते आह्वयति एवमहमपि आह्वयामि फलसाधनह्वानेदृष्टान्तः—यन्ताउपग- न्ता उपगन्तकामः ऋजयाइव द्वितीयायाआकारः ऋजुगामिनंमार्गज्ञमिवदिष्टांदिशंन गन्तव्यांअभि- मतांदिशंप्रतियथातथावामपियथाध्वगामीस्वगन्तव्यस्यशीघ्रगमनायमार्गज्ञंऋजुगामिनमाह्वयति- तद्वत् यद्वा ऋजूयाएव इवशब्दएवार्थे यंतागंताऋजुनैवमार्गेणदिष्टांदिशमिव तथायुष्मत्प्रीणनेनमा- र्गेणस्वाभिमतंफलंप्राप्नोति हेनासत्या अश्विनौ मेममहवमाह्वानं आलक्ष्योपयातं उपगच्छतम् ॥ ५ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९