मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८५, ऋक् ५

संहिता

सं॒गच्छ॑माने युव॒ती सम॑न्ते॒ स्वसा॑रा जा॒मी पि॒त्रोरु॒पस्थे॑ ।
अ॒भि॒जिघ्र॑न्ती॒ भुव॑नस्य॒ नाभिं॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥

पदपाठः

स॒ङ्गच्छ॑माने॒ इति॑ स॒म्ऽगच्छ॑माने । यु॒व॒ती इति॑ । सम॑न्ते॒ इति॒ सम्ऽअ॑न्ते । स्वसा॑रा । जा॒मी इति॑ । पि॒त्रोः । उ॒पऽस्थे॑ ।
अ॒भि॒जिघ्र॑न्ती॒ इत्य॑भि॒ऽजिघ्र॑न्ती । भुव॑नस्य । नाभि॑म् । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥

सायणभाष्यम्

सङ्गच्छमानेपरस्परमुपकारित्वेनसहयुज्यमाने वृष्टिहविषोश्चपरस्परंउपकार्योपकारकभावःयद्वा पूर्वंसंसृष्टेएवसत्यौ पश्चाद्वियुज्यवृष्टिहविषी अकुर्वन्त्यौपश्चान्मनुष्यैः प्रार्थितैर्देवैः विवाहिते सत्यौ सं- गते अभूतामित्याहुः अयमर्थोद्यावापृथिवीसहास्तामित्यादिब्राह्मणेसमाम्नातः युवतीनित्यतरुपयौ मिश्रयन्त्यौवासर्वेषुभावेषु समन्ते समानान्तिके समानपर्यन्तेवा स्वसारापरस्परंस्वसृभूते जामीब- न्धुभूते प्रजापतेःसकाशात्सहोत्पन्नत्वात्परस्परंजामित्वम् तथाचनिगमौ—दिवञ्चपृथिंवीचान्तरिक्ष- मथोस्वः । यतोद्यावापृथिवीनिष्टतक्षुरिति । पित्रोःसर्वस्यपितृस्थानीययोः पालकयोः तयोरुपस्थे उ- त्सङ्गेस्थितं भुवनस्य भूतजातस्य नाभिंबन्धकमुदकं अभिजिघ्रन्ती अभिघ्राणंकुर्वन्त्यौ स्पृशन्त्यौ स- मानमेतदुदकमित्यादिमन्त्रवर्णादुभयोरुदकप्रदत्वंप्रसिद्धम् ईदृश्यौनोरक्षतम् ॥ ५ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः