मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८५, ऋक् ६

संहिता

उ॒र्वी सद्म॑नी बृह॒ती ऋ॒तेन॑ हु॒वे दे॒वाना॒मव॑सा॒ जनि॑त्री ।
द॒धाते॒ ये अ॒मृतं॑ सु॒प्रती॑के॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा॑त् ॥

पदपाठः

उ॒र्वी इति॑ । सद्म॑नी॒ इति॑ । बृ॒ह॒ती इति॑ । ऋ॒तेन॑ । हु॒वे । दे॒वाना॑म् । अव॑सा । जनि॑त्री॒ इति॑ ।
द॒धाते॒ इति॑॑ । ये इति॑ । अ॒मृत॑म् । सु॒प्रती॑के॒ इति॑ सु॒ऽप्रती॑के । द्यावा॑ । रक्ष॑तम् । पृ॒थि॒वी॒ इति॑ । नः॒ । अभ्वा॑त् ॥

सायणभाष्यम्

उर्वी विस्तीर्णे सद्मनी सदनाधारभूते बृहती बृहतयौ महानुभावे देवानामुपलक्षणमेतत् देवमुनु- ष्यादीनां अवसाप्रीत्या निमित्तेनजनित्री वृष्टिसस्ययोर्जनित्र्यौ वृष्ट्यादेः देवानामवसा तर्पणेन नि- मित्तेन ऋतेनयज्ञेनच निमित्तभूतेन हुवेआह्वयामि देवानांहविरर्थमस्मद्यज्ञायेत्यर्थः येसुप्रतीकेशोभ- नरूपे अमृतमुदकं दधाते धारयतम् तेयुवामाह्वयामि शिष्टंस्पष्टम् ॥ ६ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः